शनिवार, 13 दिसंबर 2008

ब्रह्मज्ञानावली

।। ब्रह्मज्ञानावली माला ।।
सकृच्छ्रवणमात्रेण ब्रह्मज्ञानं यतो भवेत् ।
ब्रह्मज्ञानावलीमाला सर्वेषां मोक्षसिद्धये ।।१।।
असङ्गोऽहमसङ्गोऽहमसङ्गोऽहं पुनः पुनः । 
सच्चिदानन्दरूपोऽहमहमेवाहमव्ययः ।।२।।
नित्यशुद्धविमुक्तोऽहं निराकारोऽहमव्ययः । 
भूमानन्दस्वरूपोऽहमहमेवाहमव्ययः ।।३।।
नित्योऽहं निरवद्योऽहं निराकारोऽहमुच्यते । 
परमानन्दरूपोऽहमहमेवाहमव्ययः ।।४।। 
शुद्धचैतन्यरूपोऽहमात्मारामोऽहमेव च ।
अखण्डानन्दरूपोऽहमहमेवाहमव्ययः ।।५।।
प्रत्यक्चैतन्यरूपोऽहं शान्तोऽहं प्रकृतेः परः । 
शाश्वतानन्दरूपोऽहमहमेवाहमव्ययः ।।६।।
तत्त्वातीतः परात्माहं मध्यातीतः परः शिवः ।
मायातीतः परंज्योतिरहमेवाहमव्ययः ।।७।।
नानारूपव्यतीतोऽहं चिदाकारोऽहमच्युतः । 
सुखरूपस्वरूपोऽहमहमेवाहमव्ययः ।।८।।
मायातत्कार्यदेहादि मम नास्त्येव सर्वदा ।
स्वप्रकाशैकरूपोऽहमहमेवाहमव्ययः ।।९।।
गुणत्रयव्यतीतोऽहं ब्रह्मादीनां च साक्ष्यहम् ।
अनन्तानन्तरूपोऽहमहमेवाहमव्ययः ।।१०।।
अन्तर्यामिस्वरूपोऽहं कूटस्थः सर्वगोऽस्म्यहम् ।
परमात्मस्वरूपोऽहमहमेवाहमव्ययः ।।११।। 
निष्कलोऽहं निष्क्रियोऽहं सर्वात्माद्यः सनातनः ।  
अपरोक्षस्वरूपोऽहमहमेवाहमव्ययः ।।१२।। 
द्वन्द्वादिसाक्षिरूपोऽहमचलोऽहं सनातनः ।  
सर्वसाक्षिस्वरूपोऽहमहमेवाहमव्ययः ।।१३।। 
प्रज्ञानघन एवाहं विज्ञानघन एव च ।  
अकर्ताहमभोक्ताहमहमेवाहमव्ययः ।।१४।। 
निराधारस्वरूपोऽहं सर्वाधारोऽहमेव च ।  
आप्तकामस्वरूपोऽहमहमेवाहमव्ययः ।।१५।। 
तापत्रयविनिर्मुक्तो देहत्रयविलक्षणः ।  
अवस्थात्रयसाक्ष्यस्मि चाहमेवाहमव्ययः ।।१६।। 
दृग्दृश्यौ द्वौ पदार्थौ स्तः परस्परविलक्षणौ ।  
दृग्ब्रह्म दृश्यं मायेति सर्ववेदान्तडिण्डिमः ।।१७।। 
अहं साक्षीति यो विद्याद्विविच्यैवं पुनः पुनः ।  
स एव मुक्तः सो विद्वानिति वेदान्तडिण्डिमः ।।१८।। 
घटकुड्यादिकं सर्वं मृत्तिकामात्रमेव च ।  
तद्वद्ब्रह्म जगत्सर्वमिति वेदान्तडिण्डिमः ।।१९।। 
ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः ।  
अनेन वेद्यं सच्छास्त्रमिति वेदान्तडिण्डिमः ।।२०।। 
अन्तर्ज्योतिर्बहिर्ज्योतिः प्रत्यग्ज्योतिः परात्परः ।  
ज्योतिर्ज्योतिः स्वयंज्योतिरात्मज्योतिः शिवोऽस्म्यहम् ।।२१।। 
।।इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ ब्रह्मज्ञानावलीमाला संपूर्णा।।